गवेषणप्रबन्धस्य संक्षिप्तरूपरेखा-टि.एस्. विजयन्।
भारतीयविज्ञानस्य नानाशास्त्रेषु कृतभूरिपरिश्रमः श्रीनारायणगुरुः केरलीयनवोत्थाननायकेषु भारतीयगुरुपरम्परायामर्वाचीनः । गुरुः, दार्शनीकः, धार्मिकाचार्यः, समाजपरिष्कर्ता, कविरित्यादिपदैः, सुविख्यातः अयं आचार्यः संस्कृतेरिव संस्कृतस्यापि पोषकः।श्रीनारायणगुरुचरणानां ग्रन्थानां सांस्कृतिक-सामाजिक-साहित्यक्यदिदृष्ट्य अनेकानि अनुसंधानानि सञ्जातानि। तान्त्रिकप्रभवस्याधारेण एव अयं प्रबन्धः विरचितः।
गुरुदेवकृतिषु शैव-वै,्णव-शाक्ततन्त्रप्रभाव- दृश्यते । संस्कृत-मलयाल-तमिल्भाषासु षष्ट्यधिकसंख्याकाः ग्रन्धाः सन्ति गुरुदेवस्य। गुरोः स्तोत्रकृतयः अनुशासनकृतयः दार्शनिककृतयः एवं त्रिषु विभागेष्वपि तन्त्रविचाराः परिलसन्ति।
शिवशतकम्, शिवप्रसादपञ्चकम्, सदाशिवदर्शनम्, चिदम्बराष्टकम्, दैवचिन्तनम्, कुण्डलिनीगीतम्, दर्शनमाला, आत्मोपदेशशतकम्, इत्येताः शैवसिद्धान्तपराः । श्रीकृष्णदर्शनम्, वसुदेवाष्टकम्, विष्ण्वष्टकम्, इत्यादिषु विशिष्टाद्वैतप्रतिपादकाः वैष्णवविचारयुक्ताः। कालिनाटकम्, जननीनवरत्नमञ्जकम्, भद्रकाल्यष्टकम्, देवीस्तवः, इत्येताः शाक्तेयकृतयः, च सन्ति।
तन्त्रशास्त्रम् आधुनिककाले अपि जनोपयोगित्वेन प्रसक्तमिति गुरुदेवकृतयः एव निदर्शनाः। एवम् एकोनविंशतिशतके परशुरामक्षेत्रमित्याख्ये केरलराज्ये सामाजिक-दार्शनिक-सांस्कृतिकमण्डलेषु समग्रपरिवर्नस्य नवोत्थानकाहलमुद्गायन् श्रीनारायणगुरुदेवः तान्त्रिकसम्प्रदायस्यापि प्रयोक्ता आसीत्।