त्यज खेदं सदानघे। - विजयन् पट्टाम्बी।

 

पुत्री स्वसा तथा जाया

माता मातामहीति च।

सुवर्षे भारते स्त्रीणां

जीवचक्रगतिस्मृता।।


पितरं लीलया पुत्री

मातरं भाषणेन च।

गृहान्तवासिनः सर्वान्

तोषयन्ती विराजते।।


पितृभातृगणान् बन्धून्

मातरञ्च सखीन् स्वसा।

तुष्टानकारयत्सर्वान्

मयूरी काननं यथा।।


जाया पतिव्रता साध्वी

रतीदेवीसमप्रभा।

सन्मार्गदर्शिका भर्तुः

कलहंसीव भाषिणी।।


वन्दे त्वामनघे मातः!

क्षमायाः मूर्तिरूपिणि!

गर्भभारभराक्लान्ते!

पुत्रस्नेहैककांक्षिते!।।


मातामहीं महीकल्पां

महितां पौत्रतोषिणीम्।

नमामि भवतीं नित्यं

कथाकथनतत्पराम्।।


बाला वा कन्यका वास्तु

भारताम्बैव सा मता।

सेयं नः सोदरी साक्षात्

सेयं माता जगत्प्रसूः।।


यत्र नार्यस्तु पीड्यन्ते

रमन्ते तत्र माध्यमाः।

साधवो विक्लबाः जाताः

निष्कल्मषधियः भृशम्।।


दुर्बुद्धिहेतुजातेन

बलात्सङ्गेन केनचिद्।

दह्यते मानसं साधो-

रग्निनेव हि काननम्।।


येनैषा पीड्यते नित्यं

दुष्टेनात्राततायिना।

नास्मिन् पक्षान्तरं लोके

छेदनीयं तदिन्द्रियम्।।


व्यवस्था च करणीयात्र

सर्वकारेण सर्वथा।

दण्डनं च भवेन्नूनं

तीक्ष्णं भीतिकरं ध्रुवम्।।


मानसं मलिनं जात-

मन्तर्जालप्रचोदितम्।

अचिन्त्यहेतुकैः दृश्यै-

रश्लीलैर्भाषणैर्बलाद्।।


बालकाश्च तथा वृद्धाः

पठितारश्च पाठकाः।

अन्तर्जालेन सम्बन्धाः

मत्ता जाता इव गजाः।।


योजयेत्संस्कृतेर्नूनं

भारतस्यास्य पाठनम्।

विद्यालयेषु सर्वेषु

फलदा स्यात्प्रतिक्रिया।।


सोदरि! विमले! पुण्ये!

रोदनं मास्तु निर्मले!

सोदरा वः कटीबद्धाः

तिष्ठन्त्यत्र सहस्रशाः।।


नारि! भगवति! भद्रे!

नरवंशप्रवर्धिनि!

जगदम्बे! परिश्रान्ते!

त्यज खेदं सदानघे।

Fri, 21 Jun 2013 11:26:39 CDT