जलं जीवरक्षायै। - Stephy Rose, LFCGHS, Irinjalakuda.

मानवजीवने जलमत्यन्तमपेक्षितम्। जनाः जलं जीवनोपायम् इति वदन्ति। प्राणिनां जीवरक्षार्थं प्रकृतिस्रोतसः संरक्षणार्थं च जलमेकम् अविभाज्यघटकमिव वर्तते। भूमेः त्रिषु भागेषु द्वौ भागौ जलपूर्णं भवतीति वयं जानीमः। जलं विना जीवनं न शक्यते। जीवस्याधारं जलं स्नानाय पानाय सस्यसंवर्धनाय च उपकरोति।

जलाशयसमृद्धं केरलदेशमपि जलदौर्लभ्येन शुष्यति। केरलीयजनतायाः अस्याः दुर्दशायाः हेतुः जलमलिनीकरणं जलस्रोतसां नाशं च भवति।

केदारनाशनमद्य अधिकतया दृश्यते। पुरातनकाले कृषिमुपजीवनत्वेन स्वीकृतायाः जनतायाः आवासभूमिः भवति केरलदेशः। किन्तु इदानीं सर्वेSपि जनाः कार्यालयवृत्तौ एव तत्पराः। अतः कार्षिकवृत्तिं कर्तुं सर्वेsपि जनाः इदानीम् विमुखाः वर्तन्ते। सौधनिर्माणार्थं च बहवः केदारनाशनं करोति। अतः केदाराः इदानीं मृदा पूरिताः। केदाराः वर्षाजलं स्वीकृत्य तत् भूमेः अन्तर्भागे संभरणं कर्तुं अत्यर्थं सहायकं भवन्ति। जलस्य संरक्षणार्थं केदारस्य संरक्षणं प्रथमतया करणीयम्।

सिकताखननेनापि जलदौर्लभ्यं भविष्यति। प्राचीनकाले नद्यः सर्वे सिकतापूरिताः आसन्। सौधनिर्माणार्थं आवश्यकानां सिकतानां खननेन मानवाः जलाशयनाशनं चौर्यरूपेण अकुर्वन्। बहवः नद्यः सिकताखननेनैव शोचनायवस्थां प्रापुः। केरलदेशे प्रमुखानां जलस्रोतसामपि नाशः सिकताखननेन प्राप्नुवन्ति। जलाशयसंरक्षणार्थं सिकताखननं मा कुरु।

वननशीकरणमन्यः हेतुः भवति। मानवाः तेषां विविधावश्यकानां वस्तूनां निर्माणाय वननशीकरणं कुर्वन्ति। वृक्षमूलाः जलप्रवाहस्य निरोधनं कृत्वा जलसंभरणं कुर्वन्ति। वनं विना वृष्टिः न भवति। वननशीकरणेन वृक्षमूलानामपचयः संभव्यते। तदा जायमानेन जलप्रवाहेन महती जलनष्टः भवति। यदा सूर्यतापेन जलदौर्लभ्यं संभव्यं तदा वृक्षरहितदेशे महती जलदौर्लभ्यं भविष्यति। तामवस्थां परिहर्तुं वनसंरक्षणमपि करणीयम्।

पुरातनकाले जलस्रोतांसि सर्वाणि निर्मलजलेन पूरिताः आसन्। सर्वेsपि जलाशयाः शुद्धजलस्य भण्डागाराः आसन्। किन्तु इदानीं भोजनशालेभ्यः आतुरालयेभ्यश्च मालिन्यानि जले क्षिपन्ति। जैवमालिन्येन रासमालिन्येन च जलमलिनीकरणं भविष्यति। अत एव शुद्धं जलमद्य दुर्लभं भवति। पानजलदौर्लभ्येनैव केरलीयजनाः महान्तं क्लेशमनुभवन्ति। तथा च शुद्धजलसंरक्षणं करणीयम्।

जलस्य दुरुपयोगेनापि जलदौर्लभ्यं भविष्यति। कोक्कोकोला पेप्सी इत्यादयाः यन्त्रशालाः भुमेः अधोभागात् अधिकतया जलं स्वीकरोति। एतेषां प्रवर्तनात् ऋते व्यक्तिगताः जलदुरुपयोगः वर्धते एव।

वर्षाकाले जलं सुलभं भवति। किन्तु अत्युष्णकाले मानवाः विशिष्य केरलीयजनाः महती जलाभावेन अत्यन्तं क्लेशमनुभवन्ति। अस्याः अवस्थायाः परिहाराय वर्षगर्तानां निर्माणं करणीयम्। अनेन वर्षजलस्य संरक्षणं कर्तुं शक्यते। जलस्य दुरुपयोगः अपि कदापि न करणीयः।

अस्माकं देवराज्यं देवराज्यमेव भवन्तु। तत् निर्मलजलसमृद्धं भवन्तु। वापीतटाकादिभिः समाकुलं भवन्तु। वृक्षलतादिभिः शोभितं भवन्तु।

 

STEPHY ROSE 8-A

Thu, 20 Jun 2013 00:45:28 CDT