नित्यं प्रभामयं वाग्भूषणम्।................विजयन् पट्टाम्बी।

മലപ്പുറത്തുവച്ചുനടന്ന സംസ്ഥാന സംസ്കൃതോത്സവസെമിനാറിന്റെ ചര്‍ച്ചയില്‍ പങ്കെടുത്തുകൊണ്ട് വിജയന്‍ മാസ്റ്റര്‍ അവതരിപ്പിച്ച പദ്യം....

ईश्वरभाषणवर्षपूरं

शश्वन्मे श्रोत्रमधुरवर्षम्।

आनन्दसागरवारिमग्नाः

आबालवृद्धजनसदस्याः।।

 

अत्यन्तमोदश्च चित्तशुद्धिः

मित्राणां लाभश्च स्थानलब्धिः।

जिह्वैकलभ्योहि सज्जनानां

शिष्टप्रकृतीनां मानुषाणाम्।।

 

सर्वेन्द्रियेषु प्रधानभूता

जिह्वा जनानां मुखोपविष्टा।

जीयादनल्पा विवदमाना

खादनकर्मणि नित्यतृप्ता।।

 

यान्यसौ वस्तूनि चात्तिमोदा

न्नास्त्यत्र दोषो हा सद्यःपाती।

यान्यसौ भाषते क्षिप्रकोपा-

दापत्प्रदा सैषा नास्ति तर्कः।।

 

वागेषा मानसभास्करस्य

सूक्ष्मस्वरूपा प्रकाशरेणुः।
मानसं मालिन्यनिर्भरञ्चेद्

वागसौ निश्चयः पूतिगन्धा।।

 

सज्जनदूषणं क्षिप्रकोपः

अश्लीलभाषणं मद्यपानम्।

दोषैकदृग्त्वमतिभाषणं

भाषणदोषस्य हेतुभूतम्।।

 

कारगृहवासदण्डदोषान्

शारीरमानसदुःखजालान्।

सर्वान् विधत्ते रसनेन्द्रियं

ज्येष्ठाविलासाद् हा हन्त कष्टम्।।

 

श्रृण्वन्ति ये मां महासदसि

पादौ गृहीत्वा वदामि सत्यम्।

भाषणसागराद् लभ्यश्च नो

मोदैकरूपममृतकुम्भः।।

 

भूषणजालं धनिकलभ्यं

भीतिप्रदायकं चोरवृन्दाद्।

निष्प्रभं हा भवेद् भूषाजालं

नित्यं प्रभामयं वाग्भूषणम्।।

 

सत्यं वदत हितं वदत

सत्यानुरूपं प्रियं वदत।

भाषणं साधु समाचरत

जीवितं मोदमयं कुरुत।।

 

उत्सवे चास्मिन् महत्वपूर्णे

संस्कृतचित्तैस्समायोजिते।

आमन्त्रणादेव पुण्यभाव-

माप्तवान् साधुजनो विनीतः।।

 

**************

 

Sun, 20 Jan 2013 16:50:42 UTC