पुस्तकपरिचयः - ललितास्तवरत्नम्।

ललितास्तवरत्नं नाम ग्रन्थः दुर्वाससो महर्षेः भवति । अयं तान्त्रिको ग्रन्थः चतुर्दशाधिकद्विशतात्मकः आर्यावृत्ते रचितो भवति । गणितपरः मनुष्यस्य बुद्धेः परिपूर्णविकासाय उपकारकः आध्यात्मिकः पन्था च भवति त्रिपुरसुन्दर्याः आराधना । तत्र देव्याः श्रीपुरमिति नगरस्य वर्णना क्रियते ब्रह्माण्डपुराणे श्रीललितोपाख्याने । तस्याः नगर्याः वर्णना अस्मिन् स्तवेपि काव्यात्मकतया क्रियते । नानाविधाः भित्तयः, मध्यप्रदेशेषु विभिन्नाः आरामाः, वज्रानदी , अम्रृतवापी, आनन्दवापी , विमर्शवापी, शृंगारपरिखा , महापद्माटवि ,इत्येतैः युक्तस्य श्रीपुरस्य म्ध्ये बिन्दुचक्रैः शोभमानं चिन्तामणिगृहं वर्तते । चतुश्शतयोजनोत्तुंगे तत्समानविस्तृते सुमेरुपर्वतस्य मध्यशृंगे ब्रह्मविष्णुमहेश्वरैः कारणपुरुषैः प्रेरिताभ्यां मयविश्वकर्मभ्यां निर्मितं भवति श्रीपुरम् । अस्मिन् श्रीपुरे महाकालः , महाकाली, ऋतवः. सिद्धाः, चारणाः,योगिन्यः,भैरवाः,गन्धर्वाप्सरसः, पातालवासिनः,महानागाः, महाबलि: इत्येताः,भूलोकसिद्धाः,देवलोकवासिनः,मन्त्रिणी मातंगी,सर्वसैन्याधिपा दण्डनादा ( वाराही) प्रजापतयः,सप्तर्षयः इत्येवम् अनेककोटिमहाशक्तयः सन्निधिं कुर्वन्ति ।

चतुर्त्रिंशत् आधिकारिकग्रन्थान् अवलम्ब्य प्रकाश् महोदयेन के.एस्. सुब्रह्मण्यैय्यर् इति तस्य गुरोः प्रेरणया रचितेयं व्याख्या गुरुप्रिया नाम स्तवमिमं सरलं करोति । अयं ग्रन्थः श्रीपुरं तान्त्रिकगवेषणकेन्द्रेण प्रकाशं नीतः । प्रकाशनकर्म महाकविना अक्कित्तं महाशयेन नातिमहता कार्यक्रमेण स्वस्मिन् गृहे श्रीपुरस्य निदेशकस्य गिरीश् महाशयस्य सन्निधौ कृतम् ।

पुस्तकस्य अस्य उपलब्धि: इरिङ्गालक्कुटासमीपस्थे माटायिक्कोणं तान्त्रिकगवेषणकेन्द्रे भवति । मूल्यं २००/- रूप्यकाणि ।


 

 

Thu, 17 May 2012 15:26:57 UTC