अषिक्कोट् महोदयः संस्कृतस्य कुलपतिः। - अशोकन् पुरनाट्टुकरा।

      विश्वेsस्मिन् राजकीय-सांस्कृतिक-सामूहीक-धैषणिकादि-मण्डलेषु स्वकीयं प्रभावं प्रसारयतः अनेकान् महापुरुषान् दृष्टवन्तः सन्ति साक्षराः अत एव अराक्षसाश्च मानवाः। परन्तु स्वकीयेन, प्रभावेण समस्तान्यपि मण्डलानि उद्धृतवान् यः कोपि आसीच्चेत् तन्नाम, एकस्मिन्नेव युज्यते सुमुकार् अषिक्कोट् इत्यस्मिन्।

      बाल्य एव पित्रोः निर्देशात् संस्कृतं पठितुं लब्धावसरः अयं विश्वप्रसिद्धस्य कोषिक्कोट् विश्वविद्यालयस्य कुलपतिपर्यन्तं प्रावर्तत। प्रभाषणपटुत्वेन लब्धाङ्गीकारस्यास्य विविधविषयसंबन्धीनी प्रभाषणानि केरलीयवैज्ञानिकमण्डलम् इदानीमपि पुलकयन्ति। संस्कृतमेव भारतस्य पृष्ठाटास्थिः इति समर्थितेनानेन संस्कृतस्य प्रतिष्ठापनाय कृताः प्रयत्नाः असंख्याकाः सन्ति। न केवलं स्वकीयावासे उपविश्य लेखनद्वारा उत वा महासदत्सु प्रभाषणद्वारा परन्तु मध्याह्ने कर्कशं सूर्यातपं सोढ्वा संस्कृतप्रणयिभिः सह षेध-प्रतिषेध-प्रकटनानां नेतृत्वं प्रदाय संस्कृतभक्तान् अनुग्रहशतैः सम्पुष्टीकृतवन्। अस्य वियोगः न केवलं संस्कृतप्रेमिणः अपि तु समेषामपि राष्ट्रियाणां नित्यनष्टमेव।

      (लेखनं सम्पूर्णतया 'Downloads' मध्ये..................)

Wed, 25 Jan 2012 06:44:27 UTC