व्याकरणपाठाः - श्री एन्.के. रामचन्द्रः।

२. कृत्यप्रत्ययाः।           

    'तव्यत्तव्यानीयरः'  इति सूत्रेण धातोः तव्यत्, तव्य, अनीयर् प्रत्ययाः विधीयन्ते। एते कृत्यप्रत्ययाः। 'तयोरेव कृत्यखलर्थाः' इति सूत्रानुसारं कृत्यप्रत्ययाः भावकर्मणोरेव प्रयुज्यन्ते।
उदा -
    विहितं कर्म एव अस्माभिः करणीयम्। (वयं विहितं कर्म कुर्यास्म)
    त्वया स्वकीयं कर्म कर्तव्यम्।(त्वं स्वकीयं कर्म कुर्याः)
    सर्वैः जागरूकैः भवितव्यम्यभाव्यम् ।(भावे प्रयोगः)
    सर्वे जागरूकाः भवेयुः)

कृत्यप्रत्ययानां प्रयोगविपरिणामाय प्रायः विधिर्लिङ् लकारः प्रयुज्यते।

Sat, 08 May 2010 16:39:42 UTC