कविताः - टि. वत्सलादेवी

१. माध्यमाः ।
 

प्रातः काले गेहकवाटम् आगच्छति खलु दिनपत्रम्।
वार्ता गानंं प्रश्नपरीक्षा चलनं चित्रं पस्यन्तु ।।
क्रीडा स्पर्धा मेलनदृश्यं प्रकोष्ठमध्ये पश्यन्तु ।
दूरात् दर्शनयन्त्रं क्रीत्वा सर्वं द्रष्टुं शक्यन्ते ।।
श्रावणमात्रे यन्त्रं पश्यतु व्योमात् वाणीं श्रृण्वन्तु ।
दूरात् भाषण साध्यं भवति यन्त्रं गेहे हस्ते च ।।
अन्तर्जालादपि वयमत्र सर्वं ज्ञातुं प्रभवाम ।।
माध्यमसंघो वार्तां दत्वा अस्मान् तुष्टान् करोति च ।।

 

२. अनुशासनम् ।
 

प्रतिदिनमुदयात्पूर्व जाग्रत ! उत्तिष्ठत भो वेगेन।
उत्थानात्परमुन्मील्याक्षीणं देवं हृदये संस्मरत।।
प्रथमं तावत् पितरं दृष्ट्वा मातृपदं खलु प्रणमत भो।
मातापितरौ लोके पश्यत देवसमानौ पूज्यौ च।।
प्रातः काले स्नानं कृत्वा शुभं वस्त्रं धृत्वा च।
मन्दिरगमनं देवनमस्कृतिः प्रतिगमनं खलु वेगेन।।
कर्तव्ये कुरु श्रद्धां पुनरिह नियतं दिनजर्याम्।
कर्माकर्मविवेचनपूर्वकमस्मत्कालं यापयत।।
संघे भूत्वा कर्मणि दुष्टान् हालकसंघं त्यजत परम्।
सौहृतमस्तु यः मर्यादायां तस्मिन् स्निह्यत नियमेन।।
सूर्यास्तंगतवेला सर्वे संघे स्थित्वा संस्मरत।
ईशं नामजपेन च नमत भक्तेर्मूलं नामजपः।।
ईश्वरसाक्षात्करणं साध्यं नामजपः खलु साधयति।
आप्तुम् इच्छा येषु च भवति तेषु परिश्रममस्तु सदा।।
अनृतं मा वद! अनृते भीतिर्सत्ये निष्ठा भवतु सदा।
सर्वेषां निजस्नेहे पात्रं भवितुं कर्मणि व्यापरत।।

Fri, 23 Apr 2010 16:27:25 UTC