नवदिल्ली - भारतस्य मृत्तिकायाः कणिकामपि अन्यराष्ट्राणां लब्धुमर्हति इति भारतस्य प्रतिरोधमन्त्रिणा श्री ए.के.आन्टणीमहोदयेन उक्तम् । अत्र भारतस्य प्रतिरोधप्रदर्शनं उद्घाटनं कृत्वा प्रभाषणे एव अनेन महोदयेन एवमुक्तमस्ति ।भारतस्य अखण्डतां स्वयंभरणाधिकारं च संरक्षितुं वयं प्रतिज्ञाबद्धाः इति च आन्टणि महोदयाः उक्तवन्तः ।