षिल्लोङ् - भारतस्य पूर्वराष्ट्रपतिः बहिराकाशशास्त्रज्ञश्च श्री ए.पि.जे. अब्दुलकलामः ऐ.ऐ.एम् प्रभाषणमध्ये ह्यः सायं सार्धाष्टवादने हृदयस्तम्भनात् दिवंगतः। सर्वेषां भारतीयानां प्रचोदकः अयं राष्ट्रपतिः बहुदीर्घकालं यावत् भारतस्य मिसैल् तथा उपग्रहविक्षेपणयानादिगवेषणविषयेषु नेतृत्वं वहन् महद्विजयं सम्पादितवान्। महोदयस्यास्य वियोगे नववाण्याः बाष्पाञ्जलिः।