एरणाकुलम् - मानविकसंस्कृतेः मूल्यानां च अन्तर्धारा संस्कृतभाषा भवति इति शङ्कराचार्यविश्वविद्यालयस्य उपकुलपतिः डो. एं.सि. दिलीपकुमारः अवदत्। विश्वसंस्कृतप्रतिष्ठानस्य तथा तिरुवुंप्लाविल् देवस्वं सनातनविद्यालयं च मिलित्वा आयोजिते संस्कृतदिनाघोषे भाषमाणः आसीत् सः। अत्रत्य छात्राणां अनुभवः संस्कृतविश्वविद्यालयायापि आदर्शः भवति । सः अवदत्।
प्रतिष्ठानं प्रकाशनविभागाध्यक्षः डो.पि.के शङ्करनारायणः अध्यक्षः आसीत्। विभिन्नस्तरीयाः आबालवृद्धं पठितारः भागं गृहीतवन्तः। तेषाम् अनुभवकथनं कलाकार्यक्रमाः च आसन्।