नवदिल्ली छायाचित्रग्राहकः श्रीमान् बिके मूर्तिः प्रतिष्ठितां चलचित्ररन्गे अत्युन्नतां दादा साहेबफाल्के प्रशस्ति लब्धवान् इति निवेदयितुम् अतितमां हृष्यामः । मैसूरुनगरे जातो विके मूर्तिः भारतदेशस्य श्रेष्ठानां निर्देशकानां यशसे अतीव निष्ठया छायाचित्रक्रहणं कृत्वा अद्वितीय इति परिगणितः । मुख्यतया मुम्बयीकेन्द्रे स कार्यकम् अकरोत् । केवलम् एकस्मिन् कन्नडचित्रे छायाग्रहणं स कृतवान् । हूवुहण्णु नामकं कन्नडचित्रं तत्कौशलस्य साक्षि । विश्वविख्यातस्य हिन्दी भाषानटस्य गुरुदत्तस्य सर्वेषु चित्रेषु छायाग्रहणं विके मूर्तिना कृतम् । पुरा क न्नडनटसार्वभौमो डा राजकु मारः फाल्के प्रशस्तिं लब्धवान् ।