नवदिल्लि- प्रशासनम् अखिलेsपि देशे एकपञ्चाशत् जनपदेषु जनवरीमासस्य प्रथवदिनाङ्कात् आधारव्यवस्था माध्यमेन लाभार्थिनां बैकलेखासु सहाय्यराशेः साक्षत् प्रापणस्य योजनां प्रवर्तयिष्यति। सन्दर्भेsस्मिन् राष्ट्रियसमितेः प्रथमोपवेशनं नवदिल्यां अनुष्ठितम्। उपवेशने समापनभाषणावसरे डाँ. मनमोहनसिंहेन प्रोक्तं यत् अनया व्यवस्थया लाभार्थिनां कृते सहाय्यराशेः प्रापणं समुचितरीत्या विधातुं शक्यते।