नवदिल्ली - नोबल्-शान्ति-पुरस्कारेण सभाजिता म्यान्मादेशस्य विपक्ष्-नेत्री आंग्-सांग्-सूची अद्य संसद् भवने लोकसभाध्यक्षां मीराकुमारवर्यां मेलिष्यति। उभाभ्यामपि नेत्रीभ्यां भारत-म्यान्मा -देशयोः नैकेषु पारस्परिक-हित-विषयेषु परिचर्चाः विधास्यन्ते।