निवापाञ्जलिः
गोविन्दमारार् -इति सारपूर्ण-
नाम्ना प्रसिद्धः सुमनीषिवर्यः।
दिवं गतोभूत् प्रथिताय तस्मै
वयं निवापाञ्जलिमर्पयामः।।
शान्तिञ्च परमां दिव्यां
स्वर्गप्रतिनवातिथेः।
पुनरावृत्तिरहितां
प्रार्थयामो सदा वयम्।।
केरलेषु प्रथितमानेषु संस्कृताध्यापकेषु तथा वैयाकरणेषु अन्यतमः बहूनां संस्कृज्ञानाम् आचार्यः साहित्यशिरोमणिः पण्डितरत्नम् इत्यादिभिर्बिरुदैस्समलङ्कृतः श्रीमान् पि.गोविन्दमारार् महाशयः(१९२७-२०१२) गतदिने तस्य पञ्चाशितितमे वयसि दिवङ्गतोभूत्। चिरं केरल संस्कृताध्यापक फेडरेषन् इत्यस्य धुरं वहन् सः महाशयः संस्कृतभाषां बहुजनमध्येषु प्रचुरप्रसिद्धां कर्तुं यत्नमकरोत्। विमर्शककेसरी इति प्रथितस्य श्रीमतः कुट्टिकृष्णमारार् महाशयस्य भारतपर्यटनम् इति प्रख्यातस्य कैरळीविरचितस्य महाभारतपठनस्य संस्कृतभाषानुवादं कृतवान् महाभागोयं महात्मनां जीवनचरितानि, संस्कृतप्रबन्धाः इत्यादीन् काञ्चन ग्रन्थान् च विरच्य संस्कृतभाषां सेवितवान्। सः महाभागः संस्कृतपाठपुस्तककर्तृणां सङ्धे च अन्यतमोभूत् बहुकालम्। तस्य महात्मनः वियोगे सन्तप्तचित्तैः पुत्रपौत्रादिभिः साकं वयमपि तेभ्यो गुरुभ्यः नितान्तामात्मशान्तिं संप्रार्थयाम इति शम्।।