एरणाकुलम् - राज्यस्तरीय संस्कृतदिनाचरणम् S R V उच्चविद्यालये कोच्चिन् मेयर श्री टोणि चम्मणि उद्घाटनम् कृतवान्। सम्मेलने नियमसभा सामाजिकः श्री. हैबि ईडन् अध्यक्षपदम् अलंकृतवान्। स्वीये अध्यक्षभाषणे श्री हैबि ईडन् उक्तवान् यत् भारतसंस्कृतेः पुनरुज्जीवनाय संस्कृतस्य प्रचारणम् आवश्यकम् । तदर्थं प्रथमकक्ष्यादारभ्यैव संस्कृतपठनमवश्यं करणीयम्। श्री तुऱवूर विश्वम्बरः मुख्यप्रभाषणं कृतवान्।श्री पुष्पाङ्गतमहाशयः स्वागतभाषणं कृतवान्। डोः सुनीतिदेवी सर्वेभ्यो कृतज्ञतां व्याहृतवति।
सम्मेलनमध्ये प्रशस्तायै वत्सलाध्यापिकायै,पञ्चविशत्यधिकानि संभाषणशिबिराणि प्रचालितायै सरस्वतीनाम्नायै बालिकायै च संस्कृतसमूहस्य समादरणरूपेण पुरस्कारौ समर्पितौ। डोः पि सि मुरलीमाधवः "संस्कृतम् अद्यतनसमस्याः" इत्यस्मिन् विषये कक्षां नीतवान् । सम्मेलनानन्तरं श्री एटनाट् राजन् नम्ब्यारस्य पाठकं ,विविधविद्यालयेभ्यः छात्राणां कलाकारयक्रमाः च आसन्।
अधिकदृश्यानि ...............................'Photo gallery' मध्ये।