इरिङ्गालक्कुटा - हस्तलिखितरूप-मातृकापरीक्षाप्रश्नपत्रिकायाः विषये संस्कृतछात्रैः. अध्यापकैश्च राज्ये सर्वत्र व्यापकप्रतिषेधः प्रकटितः। वर्षाणि यावत् संस्कृतभाषायाः टङ्कणविषये समस्या नासीदिति सर्वे जानन्त्येव। अधुना तु संस्कृतभाषाटङ्कणविधिः विद्यालयीयछात्रैरपि सुसाध्यमस्ति। परं ईदृशस्य प्रश्नपत्रिकावितरणस्य आवश्यकता किमिति सर्वे सविस्मयाः वदन्ति। अन्ये सर्वेषां भाषाविषयाणां (उरुदु,अरबी चापि) प्रश्नपत्रिकाणां ईदृशी अवस्था न दृश्यते इत्यपि सर्वेषां प्रतिषेधस्य कारणम्।