तृश्शिवपुरम् - सुप्रसिद्धः प्रभाषकः, पण्डितः, परिस्थितिप्रवर्तकः, ग्रन्थकारश्च सुकुमार् अषिक्कोट्महोदयः(८३) अद्य प्रातः ६.४५ वादने तृश्शूर् अमला आतुरालये दिवंगतः। जन्मना कण्णूर् देशीयः कर्णणा तृश्शूर् देशीयः चायं विश्वपौरः सर्वेषां केरलीयानां सुपरिचितः एव। ६०वर्षदीर्घैः दशसहस्राधिकैः अन्यादृशैः स्वकीयप्रभाषणैः अयं धिषणाशीलिः केरलीयजनानुद्बोधयत। अनेन विरचिताः तत्त्वमसिनामकः महोत्तमः ग्रन्थः भारतीयोपनिषदां सर्वस्वभूतं स्ववारस्यं केरलीयान् बोधयितुं प्राभवत्। संस्कृतमेव भारतस्य पृष्ठास्थिः इति समर्थितेनानेन संस्कृतस्य प्रतिष्ठापनाय कृताः असंख्य़ाकाः प्रयत्नाः वयमिदानीं स्मरामः। अस्य दीप्तस्मरणायां नववाणीपरिवारः वयं कृताञ्जलिर्वर्तामहे।