तृश्शिवपुरम् - सांस्कृतिककेरलस्य जीवदुदाहरणत्वेन अतीत-त्र्यशीत्यधिकवर्षाणि यावत् स्वकीयं प्रकाशं प्रसारयन् डो. सुकुमार् अषिक्कोड् महोदयः (८३) अत्यासनन्नावसथतायाम् 'अमला'आतुरालये वर्तते। अद्य रात्रौ कृत्रिमजालकसंविधानेन(ventilator) तत्प्राणान् संरक्षितुं सर्वथा प्रयतमानाः सन्ति भिषग्वराः। अतीतदिनेषु अस्पतालय एव आसीदपि सर्वाणि मित्राणि स्मरन् सर्वेषु कार्येषु उपदेशनिर्देशादिकं ददन् शय्यावलम्बी अवर्तत। 'तत्त्वमसि' इति महातत्त्वम् न केवलं केरलीयान् अपि तु सर्वानपि भारतीयान् बोधयित्वा दैनन्दिनजीवितस्य समस्तमण्डलेषु आदर्शरूपेण कालं यापयति स्मायं गान्धिशिष्यः।
अस्य सर्वं शुभं कामयामहे वयं नववाणीपरिवारः।