तृश्शिवपुरम् - एषिया भूखण्डस्य उच्चतम युवजनोत्सवरूपेण अङ्गीकृतस्य केरलराज्यस्य स्कूल् कलोत्सवस्य समुद्घाटनं समभवदद्य श्री शिवपुरस्य राजकीयाङ्कणे तत्प्रौढ्या निर्मिते मण्डपे, न केवलं केरलीयानां परन्तु समस्तस्यापि भारतीयानां हृदयावर्जक- स्वरसान्निध्यरूपेण पद्मभूषण् डो. के.जे. येशुदास् महोदयेन सम्पन्नम्।स्वीये उदद्घाटनप्रसङ्गे श्री येशुदासः छात्रानपवार्य रक्षितारः कलोत्सवस्य मत्सरार्थिनः न भवितुमर्हन्तीति प्रस्तावितवान्। केरलराज्य-शिक्षामन्त्रिः श्री अब्दुर्रब् महोदयः अध्यक्षभाषणमकरोत्।