तृश्शिवपुरम् - द्विपञ्चाशत्तमः केरल-स्कूल्-कलोत्सवः तृश्शिवपुरे अद्य प्रभृति । अस्मिन् कलोत्सवे अष्टसहस्राधिकाः छात्राः भागं भजन्ति। प्रभाते राज्य-शैक्षणिकाधिरिणा श्री षाजहान् ऐ.ए.एस् महोदयेन कलोत्सवस्य पताकारोहणं कृतम्। सायं केरलराज्यमुख्यमन्त्रिः श्री उम्मन् चाण्टी महोदयः कलोत्सवस्यास्य औपचारिकं उद्घाटनं करिष्यति।