मुम्बई - दुःस्वास्थ्यकारणात् अण्णाहसारेवर्येण स्वीयानशनं समापितम्। मुम्बय्यां एम्.एम्.आर्.डि.ए स्थले अण्णावृन्दस्य सदस्यत्रयेणापि अनशनं परित्यक्तम्। अण्णावृन्देन सांसदानां, विधायकानां च आवासानां समक्षं दृढोपवेशनस्य कार्यक्रमः अपि स्थगितीकृतः।