नवदिल्ली - तमिलनाडौ कुडनकुलम्-परमाणु-विद्युत्संयन्त्रे पञ्चशतोत्तर-द्विसहस्रतमवर्षे मार्चमासं यावत् विद्युदुत्पादनं भवितेति सम्भाव्यते। प्रधानमन्त्रिकार्यालये राज्यमन्त्री वी. नारायणस्वामी गतदिने लोकसभायामेतत् संसूचयन् अवदत् यत् कुडनकुलम् परमाणु विद्युत्संयन्त्रस्य प्रथमद्वितीययोः एकांंशयोः कृते परियोजनाव्ययं परिष्कृत्य पादोनषोडशसहस्रकोटिरूप्यकाणि स्वीकृतानि सन्ति।