नवदिल्ली - सुख्यातः सेनानी प्रथमशिक्षामन्त्री च मौलाना अब्दुल-कलाम-आसादस्य जन्मदिवसमुपक्ष्य अद्य शिक्षादिवसः परिपाल्यते। दिवसमिदं स्मर्तुं बहवः योजनाः समुद्घोषिताः सन्ति। सर्वेषु विद्यालयेषु प्रभातसभायां प्रधानमन्त्रिणा डो. मनमोहनसिंहेन देशीयशिक्षादिवसमभिलक्ष्य प्रेषितः सन्देशः पठितः। अस्मिन् सन्देशे प्रधानमन्त्रिः विद्याभ्यासमेकं सर्वाभीष्टदायकं मान्त्रिकदण्डमिति प्रख्यापितवान्।