नवदिल्ली - प्रशासनेन शिक्षाधिकाराधिनियमाय, तस्य प्रभावशालिक्रियान्वयाय च देशव्यापी जागरूकताभियानमारब्धुं योजना संरचितास्ति। अभियानेsस्मिन् सर्वान् बालान् विद्यालये प्रवेशयितुं प्रबलः प्रचारो विधास्यते। मानवसंसाधनविकासमन्त्री कपिलसिबलः गतदिने न्यगादीत् यत् शिक्षादिवसमुपलक्ष्य आगामिमासस्य एकादशदिनाङ्कात् वर्षव्यापी शिक्षाधिकाराभियानं प्रारप्स्यते।