नवदिल्ली - सर्वकारीयविद्यालयेषु पेयजलं शौचालय-सौविध्यञ्च निश्चेतुम् आगामिमासस्य पञ्चदशदिनाङ्कं यावत् उपायविधानाय सर्वोच्चन्यायालयेन राज्यानि आदिष्टानि। न्यायाधीशपीठेन उक्तं यत् एताः अपरिहार्यव्यवस्थाः सन्ति। शासनं कथमपि एतेषु अवहेलां कर्तुं नार्हति।