नवदिल्ली - संसदि लोकपालविधेयकविषयाणी परिचर्चा अद्य संभाव्यते। प्रधानमन्त्रिणः आवासे सम्पन्नस्य उच्चस्तरीयोपवेशनस्यानन्तरं वार्ताहरैः सम्भाषमाणः संसदीयकार्यमन्त्री पवनकुमारबन्सलः अवदत् यत् प्रशासनं जनलोकपालविधेयकोपेतानि सर्वाण्यपि लोकपालविधेयक-प्राग्रूपाणि विचारार्थं संसदि उपस्थापयितुं निरणैषीत्।
तत्रान्तरे वित्तमन्त्री प्रणवमुखर्जी अवदत् यत् एतद्विषयकं सम्भाषणं प्रवर्तिष्यते, अपि च सर्वसम्मत्या सर्वैरपि नेतृभिः समाजसेवी अण्णासारेवर्यः स्वीयमनशनं समापयितुमध्यार्थितोsस्ति। अत्रान्तरे प्रशानस्य अण्णावृन्दस्य च मध्ये सम्भाषणक्रचतुष्टयं सम्पन्नम्।