कोटुङ्गल्लूर् - श्रावणपूर्णिमा-संस्कृतदिनोत्सवं कोटुङ्गल्लूर् विद्याभ्यास-उपजिल्लायां समुचितरीत्या आयोजितम्। कार्यक्रमेsस्मिन् उपजिल्लाधिकारिणा श्रीमता अरविन्दाक्षन् महोदयेन आध्यक्षपदमलंकृतम्। कार्यक्रमस्य उद्घाटनं विश्वसंस्कृतप्रतिष्ठानस्य उपदेशकः श्री केरलवर्मराजा कृतवान्। विशिष्टातिथिना डो टि.एस्. विजयन् महाशयेन संस्कृतमहिमामधिकृत्य मुख्यभाषणं कृतम्। संस्कृतभारत्याः उपसचिवः डो. प. नन्दकुमारः, उपजिल्ला-संस्कृतकौण्सिल् कार्यदर्शी श्री विशाखः, टि.के. मीराभाई, श्री बाबू वि.जि, अन्ये प्रमुखजनाः च भाषणमकुर्वन्।