नवदिल्ली - प्रशासनेन पञ्चायतराजसंस्थासु अनुसूचितजाति-जनजातीय-महिलानां प्रातिन्ध्यं वर्धयितुं संविधाने इषत् परिवर्तनम् अनुमोदितम्। एतद्विषयको निर्णयश्च गतदिने प्रधानमन्त्रिणो डो.मनमोहनसिंहस्य आध्यक्षे समायोजिते मन्त्रिमण्डलीयोपवेशने गृहीतः। सूचनाप्रसारणमनत्रिः श्रीमती अम्बिका सोणी अवदत् यत् मन्त्रिमण्डलं पञ्चायतसंस्थासु महिलानां प्रातिन्ध्यं वर्धयित्वा प्रतिशतं पञ्चाशन्मितं व्यदधात्।