नवदिल्ली - भारतीयसंस्कृतपत्रकारसंघः राष्ट्रपतिं श्रीमती प्रतिभादेविसिंहपाटीलं मिलित्वा देशे प्रचाल्यमानेषु राजधानी-शदाब्धीरेलयानेषु प्रातः सायञ्च आकाशवाणीतः प्रसार्यमाणानां संस्कृतवार्तानां श्रवणसौविध्यं प्रापयितुं अनुरुद्धवान्। आकाशवाणीतः प्रसार्यमाणाः हिन्द्याङ्गलभाषिकाः वार्ताः प्रातः सायञ्च एतेषु रेलयानेषु श्राव्यन्ते एव तद्वत् संस्कृतवार्ताप्रसारणमपि स्यादिति कृत्वा भारतीयसंस्कृतपत्रकारसंघस्य प्रतिनिधिभिः निवेदनपत्रमेकं राष्ट्रपतये अर्पितम्।