नवदिल्ली - एकस्मिन् प्रमुखे निर्णये केन्द्रीयशासनेन सर्वशिक्षाभियाने स्वस्य सहयोगांशदानं प्रतिशतं पञ्चाशत्तः पञ्चपञ्चाशन्मितं कृतम्। राज्येषु आर्थिकभारं न्यूनीकर्तुं केन्द्रेण इदं निर्णीतम्। "सर्वेभ्यः शिक्षाधिकारः" इति लक्ष्यस्याधिगमाय सर्वशिक्षाभियानं शासनं कार्ययोजनासु सर्वाग्रतां भजति। अस्य कार्यक्रमस्य कार्यान्वयस्य निरीक्षणाय प्रतिशतं षट्प्रतिशतं धनं निर्धारितम्।