नवदिल्ली - सुनामि-भूकम्पाभ्यां नितरां दुष्प्रभाविताय जापानदेशाय भारतं सर्वसम्भवं साहाय्यं प्रदातुम् आश्वासयत्। विपत्तिग्रस्तस्य जापानदेशस्य सर्वविधसाहाय्यार्थं सन्नद्धेन भारतेनाद्य कम्बलैरापूरितं विशिष्टविमानमेकं प्रेष्यते। अत्रान्तरॆ जापानदेशे समापन्नाभ्यां सुनामि-भूकम्पाभ्यां मृतकानां संख्या दशसहस्राधिकं संवृत्तास्ति।