तृश्शिवपुरम् - केरलराज्ये दिवंगतस्य पूर्वमुख्यमन्त्रिणः के करुणाकरस्य कृते सहस्रशः जनाः अद्य प्रातरारभ्य श्रद्धाञ्जलिमर्पितवन्तः। घटनायामस्यां प्रधानमन्त्री डो. मनमोहनसिंहः भागं स्वीकृत्य दिवंगतस्य वरिष्ठकोण्ग्रस् नेतुः शरीरे पुष्पाञ्जलिमर्पितवान्। गतदिने राष्ट्रपतिः श्रीमती प्रतिभादेविसिंहपाटीलः, कोण्ग्रस् दलाध्यक्षा श्रीमती सोणियागान्धिः, गृहमन्त्री पि. चिदम्बरम् अन्ये प्रमुखनेतारश्च तिरुवनन्तपुरमागत्य करुणाकरस्य कृते श्रद्धाञ्जलिमर्पितवन्तः।