माप्राणम् - माप्राणं होलिक्रोस् देवालयात् अपहृताः विशुद्धवस्तूनि प्रतिलब्धानि सन्ति। अद्य मध्याह्ने सार्धैकवादने विश्वासिजनेनैकेन अपहृतवस्तूनां कानिचन भागानि दृष्टानि। देवालयस्य समीपस्थितस्य श्मशानस्य पृष्ठतः जातिनामकस्य वृक्षस्य अधोभागे अलक्ष्यतया प्रक्षिप्ताः इव वस्तुनि दृष्टवन्तः। प्रथमतया कः दृष्टवानिति इतःपर्यन्तं न निर्णीतम्। उन्नतारक्षिकर्मकराः स्थलमागत्य औद्योगिककार्यक्रमाणि स्वीकृतवन्तः।