चालक्कुटी - आयुर्वेदशास्त्रे चिकित्सायां च अतिविदग्धः प्रमुखः संस्कृतपण्डितः च वेद्यभूषणं राघवन् तिरुमुल्पाट् महोदयः (९१) ह्यः प्रभाते स्वगृहे दिवंगतः। केरलराज्ये आयुर्वेदगवेषणविद्यार्थीनां आश्रयः आगाधपण्डितः चासीत् एषः महोदयः। पूर्वं भारतीय-रेलयानसंस्थायां कर्मकरः पश्चात् वैद्यवृत्तिं स्वीकृत्य साधारणजनानां कृते वेद्यसेवनं कृतवानयं भिषग्वरः न केवलं केरलेषु किन्तु भारतराज्ये सर्वत्र प्रशस्तः आसीत्।