नवदिल्ली - अमेरिक्का राष्ट्रपतिः श्री बराक् ओबामा अद्य सायं चतुर्वादने नवदिल्लीं संप्राप्तः। प्रधामनम्त्रिः डो. मनमोहनसिंहः भार्यासमेतः सन् श्री ओबामां स्वीकृतवान्। सोमवारे अमेरिक्का राष्ट्रपतिः भारतस्य उपर्यधोसभायोः संयुक्ततयोगे अभिसंबोधनां करिष्यति। महात्मागन्धेः समाधिस्थलसंदर्शनमपि श्वस्तन कार्यक्रमेषु अन्यतमः।