नवदिल्ली - दीपावल्याः शुभे दिने राष्ट्रपतिः श्रीमती प्रतिभादेविसिंहपाटीलः सर्वान् भारतीयान् अभिनन्दितवती। स्वीये संदेशे राष्ट्रपतिः अवदत् यत् इदं प्रकाशपर्वं सुखं समृद्धिं च वितनोति। प्रधानमन्त्रिः उपराष्ट्रपतिः च अस्मिन् संदर्भे जनान् अभिनन्दितवन्तौ।