नवदिल्ली - राष्ट्रमण्डलक्रीडा-स्पर्धासु भारतीयक्रीडकाः ह्यः भद्रतरं प्रदर्शनं कृतवन्तः। इदानीं भारतं ऊनत्रिंशत् सौवर्णानि, द्वाविंशतिः रजतानि, द्वाविशतिश्च कांस्यमयानि पदकानि च प्राप्त्वा द्वितीयस्थाने वर्तते। प्रथमस्थानीयाः आस्ट्रेलियादेशः एकषष्टिः सौवर्णानि, षट्त्रिंशत् रजतानि, सप्तत्रिंशच्च कांस्यमयानि पदकानि च प्राप्तवन्तः। तत्रान्तरे होकिक्रीडायाः उग्रतरस्पर्धायां पाकिस्तानं पराजित्य भारतं उन्नतस्तरं प्राप्तवन्तः।