नवदिल्ली - राष्ट्रमण्डलक्रीडास्पर्धानां चतुर्थदिनान्ते ह्यः स्पर्धान्तं यावत् आस्ट्रेलिया देशेन तर्यत्रिंशत् सौवर्णानि, ऊनविंशतिः रजतानि अष्टादश कांस्यमयानि पदकानि च विजित्य प्रथमस्थानं प्राप्तम्। भारतं चतुर्दश सौवर्णानि, एकादश रजतानि नव कांस्यमयानि च जित्वा द्वितीयस्थाने वर्तते।