नवदिल्ली - प्रधानमन्त्री अवदत् यत् जम्मूकश्मीरे हिंस्रमार्गत्यागिना केनचिदपि समूहेन सार्धं संभाषितुं प्रशासनं संन्नद्धं वर्तते । विगतेषु कतिपयेषु सप्ताहेषु जम्मुकश्मीरे प्रसृतं हिंस्रघटनानां परिवेशम् अशान्तिं चाधृत्य चिन्तां प्रकटयन् डो. मनमोहनसिंहः अवदत् यत् कश्मीरस्य युवानो देशस्य नागरिकाः वर्तन्ते, तेषां च परिदेवनानि नूनमपाकरणीयानि।