तिरुवनन्तपुरम् - भारतीय-रक्षामम्त्रिणा ए .के.आन्टणी-महाभागेन प्रोक्तं यत् केन्द्रीय-मन्त्रिमण्डले काश्मीरविषयेषु कोsपि मतभेदो नैव विद्यते। तिरुवनन्तपुरे शान्तिगिर्याश्रमे आयोजिते एकस्मिन् समारोहे भागग्रहणानन्तरं वार्ताहरैः सम्भाषमाणः श्री आन्टणी प्रावोचत् यत् काश्मीरोपत्यकायां प्रवर्तमान-हिंसामालक्ष्य केन्द्रम् अतितरां चिन्तितमस्ति।