नवदिल्ली - राज्ये सर्वत्र स्वाश्रयविद्याभ्यासकेन्द्राः वाणिज्यकेन्द्राः इव अधःपतिताः इति भारतीय सर्वोच्चन्यायालयेन उद्घोषितम्। केरलीय स्वकार्य-मेडिक्कल् विद्याभ्यास केन्द्राणां अद्यतन वर्षस्य प्रवेशनमधिकृत्य अवलोकनसमये एव सर्वोच्चन्यायलयेन एवं निरीक्षितम्। अनेन आज्ञया केरलीयप्रशासनस्य अद्यतन वर्षस्य मेडिक्कल् प्रवेशनपद्धतिः प्रतिकूलेन बाधितः अस्ति।