लडाक् - काश्मीरराज्ये लडाक् क्षेत्रे लेहनगरे तीव्रवृष्टिभूतेन जलपूरेण शताधिकजनाः मृताः। राज्यस्य आरक्षिमुख्यः उक्तवान् यत् अधुना यावत् द्वादशाधिकशतं मृतशरीराणि लब्धानि सन्ति । इयं संख्या इतोsपि वर्धेत इति। साहाय्यार्थं तत्र अर्धसैन्यबलानि, सेनाश्च नियुक्ताः सन्ति। राष्ट्रपतिः श्रीमती प्रतिभादविसिंहपाटीलः, प्रधानमन्त्री डो. मनमोहनसिंहश्च अस्यां दुर्घटनायां हार्दिकं दुःखं प्रकटितवन्तौ। प्रधानममत्री मृतजनानां प्रतिकुटुम्बं लक्षं रूप्यकाणि प्रधानमन्त्रिसहायकोषात् प्रदातुं उद्घोषयत्।