कोच्चि- केरलेषु मावेलिक्करा निर्वाचन-मण्डलात् लोकसभाङ्गत्वम् प्राप्तस्य श्री. कोटिक्कुन्निल् सुरेष् महोदयस्य निर्वाचनम् असाधु इति केरलीय उच्चन्यायालयेन आज्ञापितम्। मावेलिक्करा, संवरणमण्डलम् इत्यतः श्रि. सुरेष् महोदयस्य मत्सरार्थम् योग्यता नास्ति इति विधि निर्णये न्यायालयेन निरीक्षितम्।