अहम्मदाबाद् - गुजरात राजस्य पूर्वगृहमन्त्रिः श्री अमितशाहः रविवारे सि.बि.आई दलेन बन्धितः। न्यायालयः तं चतुर्दश दिनानि नियमबन्धने प्रेषितः। परह्यः अमिशाहेन स्वीयं स्वमन्त्रिपद-त्यागपत्रं समर्पितमासीत्। सि.बि.आई कन्द्रीयान्वीक्षणविभागेन षेहराबुद्दीन् इत्यस्य कपट-संघर्ष-प्रकरणे हत्यारोपितः भवति अमितशाहः। प्रधानमन्त्रिः डो. मनमोहनसिंहः अमितशाहस्य बन्धनविषये प्रशासनस्य सम्मर्द्दः किमपि नास्तीति उक्तवान्।