वडोदडा - 'संस्कृतवर्तमानपत्रम्' इति संस्कृतस्य दैनिकं वार्तापत्रं श्वः प्रभृति वडोदडातः प्रकाशयिष्यते। अस्य संस्कृत-दिनपत्रस्य सम्पादकः प्रफुल्लपुरोहितः सूचयति यत् सुरभारती-सेवार्थं संस्कृति-संस्कृतयोश्च प्रचारार्थं इदं दैनिकं संस्कृतपत्रं सततं यतता। अस्य दिनपत्रस्य लोकार्पणविधा श्वो वडोदडा नगरे गुजरात-विधानपरिषदः सभापतिना श्री अशोकभट्टेन विधास्यते।