नवदिल्ली - नक्सलबाधितसंस्थानेभ्यः अन्येभ्यः च अधिकान् समुदायविभागान् ओ.बि.सि. पट्टिकायां समावेशयितुं केन्द्रीयमन्त्रिमण्डलेन निर्णयः कृतः। हरियाना- झार्खण्ड-कर्णाटक-राजस्थान-छत्तीसगढ-हिमाचलप्रदेशानां संस्थानानां अयं निर्णयः प्रयोजनकरः भविष्यति।