बारामुल्ला - काश्मीरदेशे बारामुल्ला जनपदे उग्रवाद-सुरक्षाबलयोर्मध्ये संजाते एकस्मिन् संघर्षे द्वौ उग्रवादिनौ एकः सुरक्षाकर्मी च मृत्युमुपगताः। इदानीं सोपोर-बारामुल्ला नगरयोः सञ्चारनिरोधः सम्प्रवर्तते। श्रीनगरस्य अनेकषु भागेषु अन्येषु च नगरेषु १४४ नियमः प्रवर्तते।