श्रीनगरम् - संघर्षबाधिते श्रीनगरे शान्तिं पुनस्थापयितुं नगरप्रशासनस्य साहाय्यार्थं सेनाः नियुक्ताः सन्ति। गतदिने संघर्षे त्रिजनाः मृताः अन्याः सप्ततिमिताः आहताः च सन्ति। तत्रान्तरे कन्द्रीयगृहसचिवः श्री जि.के. पिल्ला काश्मीरस्य विधिनियमव्यवस्थां समीक्षितुं अद्य श्रीनगरं प्रयाति। द्विसप्ताहाभ्यन्तरे अनेन संघर्षेण तद्देशीयाः त्रयोदशजनाः सुरक्षाबलानां गोलिकास्त्रप्रयोगेण मारिताः सन्ति।