नवदिल्ली - अवश्यवस्तूनां मूल्यवृद्धिं विरुद्ध्य अखिलभारतेषु पिधानान्दोलनं समाचरितुं वामदलैः समाहूतम्। वामदलानि अन्य-विपक्षदलैः सह श्वः प्रातः षड्वादनात् सायं षड्वादनं यावत् पिधानमाचरिष्यन्ति। आन्दोलनस्य समर्थनाय शिक्षाकेन्द्राणि पिधातुं, वैयक्तिकानि वाहनान्यपि नैव प्रचालयितुं तैः प्रसारित-विज्ञप्तिपत्रद्वारा निवेदितम्। तत्रान्तरे भारतीय-जनतापार्टि-दलेन श्वः अखिल-भारतीय-पिधानान्दोलनाय समाहूतमस्ति।एवं केरलराज्ये दशदिनाभ्यन्तरे द्वितीयं पिधानान्दोलनं तद्वारा साधारणजनानां जीवनस्य पिधानाय द्वितीयमवसरमपि सञ्जातमस्ति।